वैदिक-यात्रा
जीवनमेका यात्रास्तिः,
जीवात्मनः पर्मात्मानमभिः, संसारात् स्वमभिः . . .
याति त्राति रक्षतीति वेदानुकूल वेदशास्त्र
सम्मत या यात्रा सा वैदिक यात्रा
yāti trāti rakṣatīti vedānukūla vedaśāstra
sammata yā yātrā sā vaidika yātrā
वैदिकैरनुभूतिभिश्च सर्वशक्तिमतः प्राप्तये क्रियमाणेयं यात्रास्तिः, यस्या रूपरेखा स्वयं सर्वशक्तिमान् परमात्मा व्यचयत् । स एव परमात्मा ऋषिमुनिभिः सङ्कल्पितेभ्यः शास्त्रेभ्यः सर्वसाधारणगम्यं मार्गं प्रशस्ती करोति, एनां यात्रां सुखदां च निर्माति । परं गुरुं विना यात्रेयमपू्र्णैव, यतः, गुरुरेव शास्त्रणां मर्माणि सहजतया व्याख्यापयन् स्वजीवने धारणाय दिव्यां कलां शिक्षयति । यया मनुष्यो भवसागरात् पारमेति ।
गुरु बिनु भव निधि तरइ न कोई । जौं बिरंचि संकर सम होई ।। (श्रीरामचरितमानस ९२.५ )
वेदशास्त्रमाध्यमेन गुरोनिर्देशने विधीयमाना यात्रैव वैदिकयात्रेति कथ्यते । या केवला परमा सत्यमयी यात्रास्ति । अन्याः सकला यात्रा आधारहीनाः काल्पनिकाश्च सन्ति ।
अस्य पुष्टिः श्रीमद्भगवद्गीतायां स्वयं श्रीकृष्णः करोति ।
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ।
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ (श्रीमद्भगवद्गीता १६/२३)
यो मनुष्यः स्वकीया इच्छा महत्वाकाँत्क्षाश्च पुरयितुं शास्त्रविहितान् आदेशान्न पालयति, स स्वे जीवने न पूर्णताम्, न सुखम् नोत्तमां गतिञ्च प्राप्नोति । अर्थात् स्वलोकं सभालयितुं न पारयति, परलोकश्च विनश्यति । अतः शास्त्रप्रमाणानुसारमेव मनुष्यजीवने कार्यं करणीयम् ।
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ।
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥ (श्रीमद्भगवद्गीता १६/२४)
अतः शास्त्राणि प्रमाणीकृत्यैव कर्त्तव्याकर्त्तव्योर्निर्णयो विधेयः । अस्तु, आगच्छन्तु, जीवनयापनस्यैमामद्भुतां शैली गचरुकृपया समवगम्य देवदुर्लभमिमं मानवजीवनं दिव्यातिदिव्यं सम्यादयामः ।
प्रतीक चिह्न
वैदिकयात्राया मूलस़िध्दान्तानां व्याख्या प्रतिकचिन्हेऽस्मिन्नेवं कृता ।
वटवृक्षः यो ही विश्वासस्य प्रतीकः, यस्य गहनाः शाखा निष्ठां दृढतां च द्रढयन्तः पल्लवितपत्ररूपेण नित्यप्रमुदितं जीवनं दर्शयन्ति ।
अस्य वटवृक्षस्य छायानां निहितो ग्रन्थो वेद एवास्ति । अत्र सर्वांषा गुरुदेवरूपेण स्वयं भगवान् महर्षि वेदव्यास एव विराजते । वेदा मानव-जीवन-यात्रायाः पाथेय तुल्याः सन्ति । ये हि मानवजीवनस्य समस्तां वेदनां समापयन्ति । वस्तुतो गुरुं बिना वेदस्य पुराणस्य वा रहस्यं नैव परिज्ञाते । अत एवात्र वेदविस्तारकस्य पुराणप्रकाशकस्य भगवतो व्यासस्य चित्रं वेदग्रंथस्य सम्मुखे प्रदर्शितम् । वर्तमान समये समग्रेऽस्मिन् विश्वस्मिन् भगवतो वेदव्यासस्व प्रकाट्योत्सवो “गुरुपूजनदिवसरूपेण” सर्वैः स्विक्रियते । इयं परम्परेव संकेतयति यद् गरुं बिना न कोऽपि जीवनरहस्यं ज्ञातुं पारयिष्यति । न च जीवनस्य परमं लक्ष्यं लब्घुं शक्यते । एवं जीवनस्य चरमं लक्ष्यं प्रापयित्री मोदमयी यात्रा एव वैदिकी यात्रास्ति ।
अग्रिम आरक्षण
पूजा एवं कथा की अग्रिम आरक्षण करने तथा कल्याणकारी सेवा प्रकल्पों में सहभाग्यता हेतु संपर्क करें ।
सेवा प्रकल्प
आध्यात्मिक गतिविधियों के साथ कर्मयोग कौशल का अनुभव करें।
पूर्ण, भक्ति-आसन्न समर्पण की यात्रा शास्त्रों के अनुसार अथाह स्वामी के चरण कमलों पर।