श्रीराम कथा
साक्षाद्विग्रहवान् धर्मः श्रीरामस्तस्य कथा च मनुष्य मात्रं मानवीयं धर्मं शिक्षयित्री, मानवीयसमाजे मनवतां प्रतिष्ठापयित्री दिव्या चेतनास्ति । वर्तमानसमये परिवाराः कथं परस्परं संयुक्ताः स्युः मैत्री किदृशी भाव्या ? स्वामिसेवकयोः सम्बधः कीद्दशः स्यादिति दिग्दर्शनं रामकथैव करोति ।
लोकाभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथम्। कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये॥
Lōkābhirāmaṁ raṇaraṅgadhīraṁ rājīvanētraṁ raghuvanśanātham. Kāruṇyarūpaṁ karuṇākaraṁ taṁ śrīrāmacandraṁ śaraṇaṁ prapadyē.
रामकथा भगवतः श्रीरामस्यैव कथास्ति यः भगवतो विष्णोश्चतुर्विंशतिस्ववतारेषु सप्तदशा-वतारोऽस्ति।
महर्षिणा वाल्मीकिनां रचितं रामायणं गोस्वामिनास्तुलसीदासेन संकलितं श्रीरामचरितमानसं च श्रीरामचन्द्रजीवनस्य जीवनदर्पणमेव । वाल्मीकीये रामायणे भगवतः श्रीरामस्य मानवीयं चरित्रं, रामचरितमानसे मानवीयचरित्रेण सह लीलाया ऐश्वर्यस्य च वर्णनमस्ति।
सर्वप्रथमं रामकथा भगवान् सदाशिवः पार्वतीं श्रावयामास, यां श्रुत्वा काकभुषुण्डिर्नारायणवाहनं गरुडं श्रावयामास। एवं रामकथायाः सरणी प्रसृता ।
श्रीरामकथां सः स्वशिष्यानश्रावयत् एवं शिष्यप्रविष्यक्रमेण रामकथायाः प्रचारोऽभवत् ।
कथास्मभ्यं किं शिक्षयति?
संघशक्तिः सद्वृत्ताद्दुर्वृत्तस्य पराजयो ,धर्मादधर्मस्य पराजयः कथं भवतीति रामकथास्मान् शिक्षयति । रामकथास्मान् विषमासु परिस्थितिस्वपि कथं जीवितव्यं मर्यादारक्षणं च कथं करणीयमिति प्रतिपादयति । रामचरितमानसे सप्तकाण्डाः सन्ति ।
तेयथा बालकाण्डः, अयोध्याकाण्डः, अरण्यकाण्डः, किष्किन्धाकाण्डः, सुन्दरकाण्डः, लङ्काकाण्डः, उत्तरकाण्डश्चेति ।
रामायण -रामचरितमानसयोरन्तरम्
गोस्वामिनः कथयन्ति यद्रामायणं रामस्य मन्दिरं रामस्य गृहं वास्ति । स्नात्वा शुद्धो भूत्वा मन्दिरं गन्तव्यम् ।
रामचरितमानसन्तु सरोवरतुल्य मस्ति । सरोवरं गन्तुं कोSपि नियमो नास्ति । यदा मनुष्यो मलिनो भवति तदा सरोवरे स्नानं करोति । अतो ये शुद्धा जातास्ते रामायणं पठेयुः। ये चात्मानं शुद्धं कर्तुमिच्छन्ति ते रामचरितमानसं पठेयुः ।
आनन्दकानने ह्यस्मिमञ्जङ्गमस्तुलसीतरु: ।
कवितामञ्ञरी भाति रामभ्रमरभूषिता ॥
नवीनतम वीडियो
अग्रिम आरक्षण
पूजा एवं कथा की अग्रिम आरक्षण करने तथा कल्याणकारी सेवा प्रकल्पों में सहभाग्यता हेतु संपर्क करें ।