स्नानशब्दः प्रक्रियात्मकोऽस्ति । शब्दोऽयं प्रक्षालनं , मार्जनं , जलाशये ब्रूडनरूपमर्थं द्योतयति । नित्यस्नानात् शरीरं स्वच्छं मनश्च प्रसन्नं भवति । प्रातः काले जलेन स्नानमेका बाह्या स्थूला च क्रिया । जल स्नानं देह शुद्ध्यै क्रियते ।
आतप उपविश्य सूर्यकिरणैः शरीरतापनस्य क्रियां विकसितेषु देशेषु ” आतपस्नान ” शब्देनोच्यते । प्राचीनकालात् स्नानं नित्यक्रियात्वेन स्वीकृतम् । जलस्नानस्योद्देश्यमस्ति शरीरस्य मनसश्च निर्विकारकरणम् । देहाश्रितैः शरीराश्रितैर्वा विकारैर्मुक्त्वो भूत्वा शुद्धदेहेन सह मनसः प्रसन्नतायाः प्राप्तिरेव स्नानक्रियाया लक्ष्यमस्ति ।
“नैमित्तिक स्नान” किसी अवसर विशेष पर या किसी घटना से जुड़ी हुई अवस्था में किया जाता है । किसी पर्व श्राद्ध, तर्पण या मृत्यु के अवसर पर किये जाने वाले स्नान को “नैमित्तिक स्नान” कहा जाता है । “काम्य स्नान” किसी फल की प्राप्ति की इच्छा से अथवा फल को प्राप्त हो जाने पर क्रिया जाता हैं । “गौण स्नान” जल रहित अवस्था में शरीर पर भस्म लपेट कर, या सूर्य की धूप में लेटकर, मानस स्नान के रूप में किया जाता है ।
स्नानप्रक्रियायां शीतलजलेन कृतं स्नानम्महत्वपूर्णं भवति । जलस्नानानन्तरं मनः शरीरं चोभे उर्जायुक्ते भवतः । भोजनानन्तरं कृतं स्नानमहितकरं भवति । इदं जठराग्निं मन्दयति । एवमेवात्युष्णजलेन कृतं स्नानञ्चाहितकरं भवति । रात्रौ सार्धद्विप्रहरं स्नानं वर्जितम् ।
तृतीयप्ररहस्योत्तरार्धे चतुर्थे वा प्रहरे सूर्योदयात् प्राक् क्रियमाणं जलस्नानं सर्वश्रेष्ठं भवति । योगमार्गसाधकाः प्रतिदिनं सूर्योदयात्प्राक् जलस्नानं कृत्वा प्राणायामैर्देहं मनश्च स्वस्थं कुर्वन्ति । ते हि साधकाः प्रतिदिनं प्राणायामैश्चित्तं शोधयन्तो निर्विकारामवस्थामधिगन्तुं यतमाना भवन्ति ।