“निर्भयो निष्पक्षो भूत्वा धर्मं पालयतु “

“निर्भयो निष्पक्षो भूत्वा धर्मं पालयतु “

मनुष्यस्य बाह्यं मनः अन्तर्मनश्च शुद्धं भाव्यम् । धर्ममार्गेणार्जिताद्धनात् क्रियमाण उपकारः फ़लदायी भवति । उत्कोचः वित्तशाठयम् ,बलेन स्वायत्तीकृतं धनं परिवारं नाशयति ( ऋगवेदः ७-५६-१२)

धर्मः संसारस्य आधारभूतः । मानवैः धर्मानुरूपमेवाचरणीयम् । विषमासु परिस्थितिषु धर्म एव मनुष्यस्य सहायतां करोति । विश्वस्माद्धर्मे नष्टे लोकानां काठिन्यं वर्धिष्यते । सर्वाणि सुखसाधानि विनश्यन्ति । अधुना मानवसमाजे अधर्मस्य बाहुल्यं विद्यते । स्वस्वार्थ पूर्तये जना धर्मं विस्मरन्ति । लोभस्य मोहस्यावरणं नेत्रयोः पिनद्धम् ।


धर्मो वस्तुतो महत्वपूर्णो सुदृढश्च भवति । स हि त्यागेन परहितभावनया च भरितोऽस्ति । परं केचन स्वार्थिनो धनलोलुपा धर्मस्याडम्वरेण सामान्यान् जानान् मूर्खान् विधाय स्वकीयं साम्राज्यं स्थापयन्ति । केचन धर्मभीरवो भवन्ति ,धर्मार्थं सर्वविधं स्यागं बलिदानं च कर्तुं तत्परा भवन्ति । नृपो हरिश्चन्द्रः,बलिः, दधितिः, मर्यादापुरुषोत्तमो रामः, अन्ये च बहवो महापुरुषा धर्मरक्षायै बहूनि त्यागानि बलिदानानि च चक्रुः ।

अधुनास्मत् समाजे अनेके जना रक्तानि पीतानि वा वस्त्राणि परिधाय , शिरसि विविधं तिलकं चन्दनञ्चालेप्य स्वं धर्मगुरुत्वेन प्रतिष्ठापयितुं प्रपञ्चं कुर्वन्ति ,जनानां धार्मिकीं भावानां च दुहन्तः शोषयन्तश्च दृश्यन्ते । बहव्यो विकृता धार्मिक्यः संस्था अधुना चलन्ति । तत्र हि दुर्नीतिपूर्वकमेकत्रीकृतेन धनबलेन बहवो दुराचारा भवन्ति । मनुष्यजीवनस्याधारः सुचितापूर्णे धर्मे आधारितः स्यात् ।


दानं, पुण्यकर्म, कर्मकाण्डश्च धर्मस्य साधनानि सन्ति । कर्तव्यपालनं, परेषां सेवा, परोपकारः सत्यं, संयमश्च धर्म एव । यो हि जन इमानि तत्वानि स्वविचार आचरणे निभालयति , स एव वास्तविको धर्मात्मा । तदैव जीवनसाफ़ल्यं यदा धर्मोऽस्माकं स्वभावे आत्मसाद भूयात् , अस्माकं चिन्तनं कर्माणि च धर्मानुकूलानि स्युः । अधर्ममार्गेण केनाप्यर्जितं धनं वीक्ष्य स्वीया मनोवृत्ति र्विकृता न स्यात् । कोऽपि बुद्धिमान् दूरदर्शी जनोऽधर्ममार्गं नैवाभिगच्छति ।


धर्मार्धर्मयोः निर्णयाय मनुष्ये बुद्धिः सत्सङ्गप्राप्तो विवेकश्चास्ति । स्वल्पपठिता जना अपि विवेकपूर्णया बुद्ध्या धर्ममार्गमनुगच्छन्ति । मानवः स्वसद्बुद्ध्या निर्भयो निष्पक्षश्च भूत्वा धर्मस्य पालनं कुर्यात्।

Vaidik Sutra