ये मनुष्याः स्वकीयमाचरणं शोधयन्ति, अन्येषाञ्चाचरणं परिष्कुर्वन्ति । तेषां सान्निध्ये सर्वैः स्थेयम् , येनास्माकं मनसः मालिन्यं नश्येत् तथा च दुष्टानां दुष्टता च नश्येत् ( यजुर्वेदः ३५-११)
वयमन्येषाञ्चरितं निर्मातुमिच्छामश्चेत् प्रथमं स्वकीये जीवने क्रान्तिरुत्पादयितव्या । स्वकीयं जीवनं परिशोध्य तस्मिन् वैशिष्यमुत्पादयितव्यम् । तदैव भवानन्यान् संस्कारयिष्यसि । तेषामुद्धारञ्च कर्तुं शक्क्ष्यसि । एको जाज्वल्यमानो दीपको लक्ष्यपरिमितान्निर्वापितान् दीपान् प्रज्वालयति परं लक्ष्यपरिमिता निर्वापिता दीपका मिलित्वापि नैकं दीपकं प्रज्वालयितुं शक्ताः भवन्ति | यस्मिन् जीवनज्योतिरस्ति तादृश एको महापुरुषो लक्ष्यपरिमितान् जनान् जीवनज्योतिं दातुं शक्तो भवति । तान् सन्मार्गं प्रति प्रचालयितुं शक्तोति,तेषाञ्जीवने नवज्योतिं विस्तारयिष्यति ।
यः स्वयं शान्तो नास्ति , स अन्यान् कथं शान्तिं प्रदाष्यति ? यः स्वयमज्ञान्यस्ति सः कथमन्यान् ज्ञानसम्पन्नान् करिष्यति ? यो जले तरितुं न जानाति स अन्यान् कथं शिक्ष्यति ? अतोSन्यान् शान्तेः शिक्षादानात्पूर्वं स्वयं शान्तः स्यात् । अन्यं ज्ञानवन्तं चरित्रवन्तं निर्माणात् प्राक् स्वयं ज्ञानवान् चरित्रवान् भवेत् । पूर्वं वयं आकर्षणस्य केन्द्रं भवामश्चेत् ततो जनाः स्वयमस्मन्निकटमाकर्षिता भविष्यन्ति ।
स्वकीय आचरणे सद्गुणानां समावेशं कृत्वा तं शुद्धं पवित्रं सुगन्धितं विधेयम् । आलस्यं प्रमादं च परित्यज्य जीवने नैरन्तर्यमानेयम् सेवया , सदाचारेण सुशीलतया , सज्जनतया च स्वकीयं जीवनमाकर्षणस्य केन्द्रीभूतं करणीयम् । स्वयं तेजस्वी , ओजस्वी च भाव्यम् । एतादृषानां जनानां संसर्गात् वहबो जनाः सन्मार्गमभिगन्तुं प्रारभन्ति । एवं शनैः शनैः तेषां दुर्गुणानां नाशः सद्गुणानां वृद्धिश्च भवति ।
पूर्वं स्वयं कुमार्गं परित्यज ,उदारो भव ,उन्नतिं प्राप ,स्वात्मानं द्योतय तदैव तव जीवनादन्येषां जीवनं प्रकाशितं भविष्यति । एतादृशा ज्ञानिन एव लोके यशः प्राप्नुवन्ति । तस्य सम्पर्कमागतानां जनानामुपरि तस्य सद्गुणानां प्रभावः स्वयमुपजायते ।
अग्नितोऽग्निर्ज्वलति ,जीवनात् जीवनं प्रकाशितं भवति ,प्रेम्णः प्रेम वर्धते ,वैरेण वैरभावो वर्धते,अतः सद्गुणिनां सम्पर्कः चरित्रनिर्माणे सहायको भवति ।