ऋग्वेदस्य ५-५-२ मण्डले उक्तं यत् ” विद्वान् पुरुषः सत्यस्य ज्ञानस्य च सदुपयोगेन जनान् सुखयतु ,यथा गौः स्वकीयेन दुग्धेन स्वपालकं सुखयति ” ।
स्वामिनो विवेकानन्दस्य शिक्षा -दर्शनमुपनिषदाश्रितमस्ति । स्वामिन आधुनिकशिक्षापद्धतेरालोचका आसन्। ते पुस्तकीयां शिक्षां परमोपयोगिनीं मन्यते स्म । शिक्षा तादृशी भाव्या यस्यां चरितस्य निर्माणं स्यात् , मानसिकशक्तौ वृद्धिः स्यात् , वृद्धेश्च विस्तारः स्यात् , येन व्यक्तिः स्वावलम्वी भवेत् | तस्य मतौ प्रत्येके जने आत्मा विद्यते । मनुष्यस्यान्तकरणे समस्तं ज्ञानं समग्रा शक्तिश्च विद्यते । मनुष्यस्यात्मन एव समस्तं ज्ञानमुत्पद्यते तं ज्ञानं स एव प्रकटयति यः स्वान्तः पश्यति ।
स्वामी विवेकानन्दो विद्यार्थिनाङ्कृते बहूनि महत्वपूर्णानि सूत्राण्ययच्छत् – ” मनसः एकाग्रता एव शिक्षाया वास्तविकः सारः । प्रयोगशालासु वैज्ञानिकाः स्वमनसः सकलाः शक्तीश्चेकाग्रीकृत्य केन्द्रविन्दौ स्थिरीकृत्य तत्वस्य चिन्तनं कुर्वन्ति । तस्य विश्लेषणं करोति ,ततः निष्कर्षरूपेण ज्ञानोपलब्धिर्भवति ।
विद्वानध्यापकः स्यान्मेधावी छात्रो वा स्यात् ,अन्यः कोऽपि वा स्यात् ,यदि सः ज्ञानमिच्छति चेत्, नियमबद्धो भूत्वैव कार्यं करणीयम् । शिक्षा भौतिकं प्रयोजनं तु पूरयति । वस्तुतो जीवनलक्ष्यप्राप्यते सुखेन -जीवनयापनाय जनः ज्ञानवान्, सदाचारी, कर्तव्यपरायणश्च स्यात्, सैव वास्तविकी विद्या । ऋषिभिः विद्यायाः शिक्षायाश्च दायित्वं स्वहस्ते गृहीत्वा सत्यस्य ज्ञानस्य च सदुपयोगाल्लोकस्य जीवनं ज्ञानेन शान्त्या प्रकाशेन च प्रकाशितं कृतम् ।
ऋषिः शिक्षको वा स भवति यः समस्तजनानां पीडां जानाति सत्यस्य ज्ञानस्य चोपदेशात् समाजस्य विकारान् निवारयति
शिक्षा मानवविकासस्य महत्वपूर्णा प्रक्रियास्ति । मनुष्याणां सर्वाङ्गीणो विकास एव शिक्षायाः उद्देश्यमस्ति,येन समस्तं व्यक्तित्वं विकसितं स्यात् ” या शिक्षा सामान्यं जनं जीवनसंग्रामाय समर्थं न करोति या च मनुष्ये चरित्रबलं ,परहितभावनां,सिंहवत्साहसं नोत्पादयेत् सा वास्तविकी शिक्षा नैव । तादृश्याः शिक्षाया आवश्यकतास्ति यया चरित्रस्य निर्माणं स्यात् ,व्यक्तेर्मानसिकी शक्तिर्बर्धेत् , मनुष्यः स्वाभिमानी स्वावलम्बी च भूयात् ।