श्रीहनुमच्चरित्रम्

भगवतो रामस्यानन्योपासकः श्रीमान् हनुमान् वस्तुतो रुद्रावतार एव ,परं भवान् दास्यभक्त्या आचार्येष्वग्रगण्यः । न कोSपि तादृशो युगोSस्ति यस्मिन् हनुमत्प्रभावो न स्यात् । चतुर्षु युगे षु भवतः प्रभावो व्याप्तः ।

यत्र यत्र रघुनाथकीर्तनम् तत्र तत्र कृतमस्तकाञ्जलिम् । वाष्पवारि परिपूर्णलोचनम् मारुतिं नमत राक्षसान्तकम् ।।

yatra yatra raghunāthakīrtanam tatra tatra kṛtamastakāñjalim ।
vāṣpavāri paripūrṇalocanam mārutiṃ namata rākṣasāntakam ।।

https://www.vaidikyatra.org/wp-content/uploads/2019/03/hanuman.jpg

चारो जग परताप तुम्हारा है परसिद्ध जगत उजियारा (श्रीहनुमान चालीसा)

रामायणमहाकाव्यस्य भवान् प्रधानपात्रम् । जानकीसहितो भगवान् श्रीरामः समस्तमवधराज्यञ्च भवतां ऋणिनौ । अस्या धराया अष्टचिरञ्जीविषु भवतो हनुमतो गणनास्ति । हनुमतोऽवतारो श्रीरामसहायतायै जातः ।

भवतः कथां भवतां भक्तास्तु शृण्वन्त्येव परं स्वयं प्रभुः रारामचन्द्रश्च श्रोतुमिच्छति । भवत्कथायाः सर्वश्रेष्ठो वक्ता ऋक्षराड् जाम्बवानेवास्ति ।

श्रीमान् हनुमान् मातुरञ्जनायाः पुत्रोस्ति । परमस्य त्रयः पितरः सन्ति । प्रथमः स्वयं भगवान् शिवः,  द्वितीयः केसरिः, तृतीयो पवनः । अतः भगवन्तं हनुमन्तं  “शंकरसुवन केसरिनन्दन” इति कथ्यते । शंकरस्य तेजः वायुनाञ्जनाया गर्भे स्थापितम् । अतः शंकरेण, पवनेन च सहाञ्जनायाः पतित्त्वात्केसरिरपि हनुमतो पिता ।

वर्णनातीतोऽस्ति हनु मतो महिमा । बुद्ध्याः शक्त्याश्च सन्तुलनं हनुमच्चरिते दृश्यते । अतो हनुमतः कथोत्साहस्य धैर्यस्य संतुलनं कथं करणीयमिति युवकान् शिक्षयति । हनुच्चरितमादाय वहवो ग्रन्था रचिताः ।

हनुमन्नाटकं, रामचरितमानसम्, रामायणं, हनुमान्चालीसादयः लोकविश्रुताः सन्ति । आबालवृद्धा हनुमच्चालीसां कण्ठस्थी कृत्य प्रतिदिनं गायन्ति । लघुकायोऽप्ययं ग्रन्थो लोकविश्रुतोऽस्ति ।हनुमतः प्रायेण समस्ताः कथात्र निर्दिष्टा ।

 

 

नवीनतम वीडियो

अग्रिम आरक्षण

पूजा एवं कथा की अग्रिम आरक्षण करने तथा कल्याणकारी सेवा प्रकल्पों में सहभाग्यता हेतु संपर्क करें ।

    Vaidik Sutra