निमि-नवयोगेश्वर संवाद
श्रीमद्भागवतमहापुणस्यैकादेशे स्कन्धे वसुदेवनारदयोः संवादमध्ये देवर्षिर्नारदः कथा माध्यमेन निमिनवयोगेश्वरयोः संवादं श्रावयति ।
अष्टादशपुराणेषु व्यासस्य वचनद्धयम्।
पपरोपकारः पुण्याय पापाय परपीड़नम्।।
Ashtaadashapuraaneshu vyaasasy chhadmyam |
Paparopakaar: puny paapaay parapeedanam ||
भगवान् ऋषभदेवो नारायणस्य चतुर्विंशतिष्ववतारेष्वेक आसीत् । तस्य शतं पुत्रेषु नवपुत्रा आत्मविद्याविशारदा योगेश्वराश्च प्रोक्ताः ।
येषां नामानि क्रमेण -कविः,हरिः ,अन्तरिक्षः,प्रबुद्धः, पिप्पलायन, आविर्होत्रः, द्रुमिलः, चमसः, करभाजनश्चेति ।
एकदा सूर्यवंशस्य धर्मात्मा राजा निमि र्योगेश्वरान् कतिचित्प्रश्नान् पृष्टवान् । नवभि योगेश्वरैः क्रमेणैकैकस्योत्तरं दत्तम् । अयमेव प्रसङ्गो निमियोगेश्वर संवादनाम्ना ज्ञायते ।
प्रश्ना निम्नाङ्किताः सन्ति :-
- परमकल्याणस्य किं स्वरूपम् ? तस्य साधनञ्च किम् ?
- भगवद्भक्तस्य कानि लक्षणानि ? भक्तस्य धर्मः स्वभावश्च कीदृशो भवति ?
- स मनुष्यैः सह कथं व्यवहरति ? कथमाचरति ? किं व्रवीति ? कैश्च लक्षणैः सह भगवतः प्रियो भवति?
- सर्वशक्तिमतः परमकारणस्य भगवतो विष्णो र्मायायाः किंस्वरुपम् ?
- <भगवन्मायाया र्मुक्तेः कोऽस्त्युपायः ? इति ।
ईश्वरीय गतिविधि
सभी चित्र देखेंआध्यात्मिक गतिविधियों के साथ कर्मयोग कौशल का अनुभव करें ।
अग्रिम आरक्षण
पूजा एवं कथा की अग्रिम आरक्षण करने तथा कल्याणकारी सेवा प्रकल्पों में सहभाग्यता हेतु संपर्क करें ।